शैले शत्रुंजयाऽऽख्ये भवजल…
(राग: आमूलालोल-धूलि…)
शैले शत्रुजयाऽऽख्ये भवजलधि-पतज्जन्तु पोतायमाने,
चैत्ये चंचत्पताका प्रकट-सितपटे कूपकाऽऽभे गुणाढ्ये;
नेतुं पारे परस्मिन शिवनगर-महा-राज्य-लाभाय लोकं,
कुर्वन् निर्यामकत्वं जयति जिनपति-नर्वाभि- भुपालस्नुः ॥१॥
यत्पादाऽम्भोजरेणु-स्तबक-तिलकिता भाविनो भावनम्रा,
भुक्तेर्मुक्तेक्ष लक्ष्म्याः स्फुटमिह सुभगं भावुक्त्वं भजन्ति;
ते सन्तो भाव्यतीता विमलगिरिमहा- शृङ्ग-शृङ्गारकाः ये,
पायासु लोकसारा जिनवर-वृषभाः क्लृप्तविश्वोपकाराः ॥ २ ॥
शैले श्री पुण्डरीके समवसृति-मुखान् उन्नतै-र्यद् घनाभै-
भॅव्यानानन्द र्यद् भि: शिखिन इव लसद्- देशना- गर्जितेनः
उद्गीर्ण तीर्थराजैः श्रुत-ममृत-मिदं बोधि-बीजानुरूपं,
श्रेयः सम्पत् फलाघं प्रथयतु सुकृताड्.कुर- पूरं -जगत्याम् ॥३॥
पुण्यात्पुण्यानुबन्धान् नियम-लवभवात् पूर्वजन्मानुचीर्णात्,
देवत्वं प्राप यः श्रीविमलगिरि- महातीर्थ- सेवापवित्रम्ः
कल्याणी- भक्ति -रुच्यै प्रथमजिनपतेः पाद पद्मार्चनेऽसौ,
क्षीयक्षेशः कपर्दी भवतु भव- भृतां भूतये शान्तये नः ॥ ४॥