Vitrag Stotra

Vitrag Stotra

 

Vitrag Stotra

Founder : Kalikal Sarvagya Aacharya Dev Hemchandra Suriji Maharaj

रचनाकार : कलिकाल सर्वज्ञ आचार्य देव श्रीमद विजय हेमचंद्राचार्य जी 

इस स्तोत्र को हेमचंद्राचार्य जी ने कुमारपाल महाराजा को परमात्मा की भक्ति करने के लिए अर्पित किया था | 

◆ प्रतिदिन सुबह कुमारपाल महाराजा इनका पढन करते थे ।
◆ इस मे परमात्मा के अद्भुत गुणों का वर्णन है ।
◆ आप इस स्तोत्र को परमात्मा समक्ष स्तुति स्वरूप बोल शकते है अथवा चैत्यवंदन में भी बोल शकते हो।
◆ परमात्मा की भक्ति मोक्ष में जाने का सरल रास्ता है , वीतराग स्तोत्र के पढन से जीवन मे समाधि प्राप्त होती है ।

 

प्रथम प्रकाश:
 
यः परात्मा  परं ज्योति:, परम: परमेष्ठीनाम् ।
आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ॥१॥
 
सर्वे येनोदमूल्यन्त, समूला: क्लेशपादपा: ।
मूर्ध्ना यस्मै नमस्यन्ति, सुरासुरनरेश्र्वराः ।।२।।
 
प्रावर्तन्त यतो विद्या:, पुरुषार्थप्रसाधिकाः ।
यस्य ज्ञानं भवभ्दावि, भूतभावावभासकृत् ॥३॥
 
यस्मिन्विज्ञानमानन्दं, ब्रह्म चैकातमतां गतम् ।
स श्रध्देयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥४॥
 
तेनस्यां नाथवाँस्तस्मै, स्पृहयेयं समाहित: ।
तत: कृतार्थो भूयासं, भवेयं तस्यकिङ्करः ॥५॥
 
तत्र स्तोत्रेण कुर्यां च, पवित्रां स्वां सरस्वतीम् ।
इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् ॥६॥
 
क्वाऽहं पशोरपि पशु-र्वीतरागस्तवः क्वच ? ।
उत्तितीर्षुररण्यानीं, पद्भ्यां पङ्गुरिवास्म्यतः ॥७॥
 
 
तथापि श्रध्दामुग्धोऽहं, नोपालभ्यः स्खलन्नपि ।
विश्रृंङ्खलापि वाग्वृत्तिः, श्रध्दानस्य शोभते ।।८।।
 
श्रीहेमचन्द्रप्रभवाद्-वीतरागस्तवादितः ।
कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥
 
द्वितीय प्रकाश:
 
प्रियङ्गुस्फटिकस्वर्ण-पद्मरागाञ्जनप्रभः ।
प्रभो ! तवाधौतशुचिः, कायः कमिव नाक्षिपेत् ?  ॥१॥
 
मन्दारदामवन्नित्य-मवासितसुगन्धिनि ।
तवाङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥२॥
 
दिव्यामृतरसास्वाद-पोषप्रतिहता इव ।
समाविशन्ति ते नाथ !, नाङ्गे रोगोरगव्रजाः ॥३॥
 
त्वय्यादर्शतलालीन-प्रतिमाप्रतिरूपके ।
क्षरत्स्वेदविलीनत्व-कथाऽपि वपुषः कुतः ? ॥४॥
 
न केवलं रागमुक्तं, वीतराग ! मनस्तव ।
वपु: स्थितं रक्तमपि, क्षीरधारासहोदरम् ॥५॥
 
 
जगद् विलक्षणं किं वा, तवान्यद्वक्तूमीश्महे ?।
यदविस्त्रमबीभत्सं, शुभ्रं मांसमपि प्रभो ! ॥६॥
 
जलस्थलसमुभ्दूताः, संत्यज्य सुमन: स्त्रज: ।
तव नि:व्श्राससौरभ्य-मनुयान्ति मधुव्रताः ॥७॥
 
लोकोत्तरचमत्कार-करी तव भवस्थिति: ।
यतो नाहारनीहारौ, गौचरश्र्चर्मचक्षुषाम् ॥८॥
 
तृतीय प्रकाश:
 
सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् ।
सर्वथा सम्मुखीनस्त्व-मानन्दयसि यत्प्रजाः ॥१॥
 
यद्योजनप्रमाणेऽपि, धर्मदेशनसद्मनि ।
संमान्ति कोटिशस्तिर्यग्नृदेवाः सपरिच्छदाः ॥२॥
 
तेषामेव स्वस्वभाषा-परिणाममनोहरम् ।
अप्येकरूपं वचनं, यत्ते धर्मावबोधकृत् ॥३॥
 
साऽग्रेपि योजनशते, पूर्वोत्पन्ना गदाम्बुदाः ।
यदञ्जसा विलीयन्ते, त्वद् विहारानिलोर्मिभिः ॥४॥
 
नाविर्भवन्ति यभ्दूमौ, मूषका: शलभा: शुका: ।
क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः ।।५।।
 
स्त्रीक्षेत्रपद्रादिभवो, यद् वैराग्निः प्रशाम्यति ।
त्वत् कृपापुष्कररावर्त-वर्षादिव भुवस्तले ॥६॥
 
त्वत् प्रभावे भुवि भ्राम्य-त्यशिवोच्छेदडिण्डिमे ।
सम्भवन्ति न यन्नाथ ?, मारयो भुवनारयः ॥७॥
 
कामवर्षणि लोकानां, त्वयि विश्र्वैकवत्सले ।
अतिवृष्टिरवृष्टिर्वा, भवेद्यन्नोपतापकृत् ॥८॥
 
स्वराष्ट्र-परराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् ।
विद्रवन्ति त्वत् प्रभावात्, सिंहनादादिव द्विपाः ॥९॥
 
यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि ।
सर्वाद्भुतप्रभावाढये, जङ्गमे कल्पपादपे ॥१०॥
 
यन्मूर्ध्न: पश्र्चिमे भागे, जितमार्त्तण्डमण्डलम् ।
माभूद्वपुर्दुरालोक-मितीवोत्पिण्डितं महः ॥११॥
 
स एष योगसाम्राज्य-महिमा विश्र्वविश्रुतः ।।
कर्मक्षयोत्थो भगवन् !, कस्य नाश्र्चर्यकारणम् ? ॥१२॥
 
अनन्तकालप्रचित-मनन्तमपि सर्वथा ।
त्वत्तो नान्यः कर्मकक्ष-मुन्मूलयति मूलत: ||१३॥
 
तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः ।
यथानिच्छन्नुपेयस्य, परां श्रियमाशिश्रियः ।।१४।।
 
मैत्रीपवित्रपात्राय, मुदितामोदशालिने ।
कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः ॥१५॥
 
चतुर्थ प्रकाश:
 
मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् ।
तिलकं तीर्थकृल्लक्ष्म्याः , पुरश्र्चत्र्कं तवैधते ।|१||
 
एकोऽयमेव जगति, स्वामीत्याख्यातमुच्छ्रिता ।
उच्चैरिन्द्रध्वजव्याजात्, तर्जनी जंभविद्विषा ॥२॥
 
 
यत्र पादौ पदं धत्त-स्तव तत्र सुरासुराः ।
किरन्ति पङ्कजव्याजा-च्छ्रियं पङ्कजवासिनीम् ॥३॥
 
दानशीलतपोभाव-भेदाद् धर्म चतुर्विधम् ।
मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद्भवान् ॥४॥
 
त्वयि दोषत्रयात् त्रातुं, प्रवृत्ते भुवनत्रयीम् ।
प्राकारत्रितयं चत्र्कु-स्त्रयोऽपि त्रिदिवौकसः ॥४॥
 
अधोमुखा: कण्टका: स्यु-र्धात्र्यां विहरतस्तव ।
भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः ? ॥६॥ 
 
केशरोमनखश्मश्रु, तवावस्थितमित्ययम् ।
बाह्योऽपि योगमहिमा, नाप्तस्तीर्थङ्करैः परैः ।।७।।
 
शब्दरूपरसस्पर्श-गन्धाख्याः पञ्च गोचराः ।
भजन्ति प्रातिकूल्यं न, त्वदग्रे तार्किका इव ॥८॥
 
त्वत्पादावृतवः सर्वे, युगपत्पर्युपासते |
आकालकृतकन्दर्प-साहय्यकभयादिव ॥९॥
 
सुगन्ध्युदकवर्षेण, दिव्यपुष्पोत्करेण च ।
भवित्वत्पादसंस्पर्शां, पूजयन्ति भुवं सुरा: ॥१०॥
 
जगत्प्रतीक्ष्य ! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम् ।
का गतिर्महतां तेषां, त्वयि ये वामवृत्तयः ? ॥११॥
 
पञ्चेन्द्रियाणां दौः शील्यं, क्व भवेद् भवदन्तिके ?।
एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम् ॥१२॥
 
मूर्ध्ना नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः ।
तत् कृतार्थ शिरस्तेषां, व्यर्थं मिथ्यादृशां पुनः ॥१३॥ 
 
जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुरा: ।
भाग्यसंभारलभ्येऽर्थे, न मन्दा अप्युदासते ॥१४॥
 
पंचम प्रकाशः
 
गायन्निवालिविरुतै-र्नृत्यन्निव चलैर्दलै: ।
त्वद्गुणैरिव रक्तोऽसौ , मोदते चैत्यपादपः ॥१॥
 
आयोजनं सुमनसो-ऽधस्तान्निक्षिप्तबन्धनाः ।
जानुदघ्नीः सुमनसो, देशनोर्व्यां किरन्ति ते ॥२॥
 
मालवकैशिकीमुख्य-ग्रामरागपवित्रितः ।
तव दिव्यो ध्वनिः पीतो, हर्षोद्ग्रीवैर्मृगैरपि ॥३॥
 
तवेन्दुधामधवला, चकास्ति चमरावली ।
हंसालिरिव वक्त्राब्ज-परिचर्यापरायणा ॥४॥
 
मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् ।
श्रोतुं मृगाः समायान्ति, मृगेन्द्रमिव सेवितुम् ॥५॥
 
भाषां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमा: ।
चकोराणामिव दृशां, ददासि परमां मुदम् ॥६॥
 
दुन्दुभिर्विश्र्वविश्र्वेश, पुरो व्योम्नि प्रतिध्वनन् ।
जगत्याप्तेषु ते प्राज्यं, साम्राज्यमिव शंसति ॥I७॥
 
तवोर्ध्वमूर्ध्वं पुण्यर्द्धि-क्रमसब्रह्मचारिणी ।
छत्रत्रयी त्रिभुवन-प्रभुत्वप्रौढिशंसिनी ॥८॥
 
एतां चमत्कारकरीं, प्रातिहार्यश्रियं तव ।
चित्रीयन्ते न के दृष्ट्वा, नाथ ! मिथ्यादृशोऽपि हि ॥९॥
 
पष्ठ प्रकाश:
 
लावण्यपुण्यवपुषि, त्वयि नेत्रामृताञ्जने ।
माध्यस्थ्यमपि द्वौः स्थ्याय, किं पुनर्द्वेषविप्लवः ? ॥१॥
 
तवापि प्रतिपक्षोऽस्ति, सोऽपि कोपादिविप्लुतः ।
अनया किंवदन्त्यापि, किं जीवन्ति विवेकिनः ? ॥२॥
 
विपक्षस्ते विरक्तश्र्चेत्, स त्वमेवाथ रागवान् ।
न विपक्षो विपक्षः किं, खद्योतो द्युतिमालिन: ? ॥३॥
 
स्पृह्यन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः ।
योगमुद्रादरिद्राणां, परेषां तत् कथैव का ? ॥४॥
 
त्वां प्रपद्यामहे नाथं, त्वां स्तुमस्त्वामुपास्महे ।
त्वत्तो हि न परस्त्राता, किं ब्रूमः ? किमु कुर्महे ? ॥५॥
 
स्वयं मिलीमसाचारै:, प्रतारणपरै: परै: ।
वंच्यते जगदप्येतत्, कस्य पूत्कुर्म हे पुरः ? ॥६॥
 
नित्यमुक्ताञ्जगज्जन्म-क्षेमक्षयकृतोद्यमान् ।
वन्ध्यास्तनन्धयप्रायान्, को देवांश्र्चेतनः श्रयेत् ॥७॥
 
कृतार्था जठरोपस्थ-दु:स्थितैरपि देवतै: ।
भवादृशान्निह्ववते, हा हा ? देवास्तिकाः परे ।I८॥.
 
खपुष्पप्रायमुत्प्रेक्ष्य, किञ्चिन्मानं प्रकल्प्य च ।
संमान्ति देहे गेहे वा, न गेहेनर्दिन: परे: ॥९॥
 
कामरागस्नेहरागा-वीषत्करनिवारणौ ।
दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ॥१०॥
 
प्रसन्नमास्यं मध्यस्थे, दृशौ लोकम्पृणं वचः ।
इति प्रीतिपदे बाढं, मूढास्त्वय्यप्युदासते ॥११॥
 
तिष्ठेढ्वायुर्द्रवेदद्रि-र्ज्वलेज्जलमपि क्वचित्।
तथापि ग्रस्तो रागाद्यै-र्नाप्तो भवितुमर्हति ॥१२॥
 
सप्तम प्रकाश:
 
धर्माधर्मौ विना नाङ्गं, विनाङ्गेन मुखं कुत: ? ।
मुखाद् विना न वक्तृत्वं, तच्छस्तार: परे कथम् ? ॥१॥
 
अदेहस्य जगत्सर्गे, प्रवृत्तिरपि नोचिता ।
न च प्रयोजनं किंचित्, स्वातन्त्र्यान्न पराज्ञया ? ॥२।।।
 
क्रीडाया चेत् प्रवर्तेत, रागवान् स्यात् कुमारवत् ।
कृपयाऽथ सृजेत्तर्हि, सुख्येव सकलं सृजेत् ॥३॥
 
दु:खदौर्गत्यदुर्योनि-जन्मादिक्लेशविह्वलम् ।
जनं तू सृजतस्तस्य, कृपालोः का कृपालुता ? 
 
कर्मापेक्षः स चेतर्हि, न स्वतन्त्रोऽस्मदादिवत् ।
कर्मजन्ये च वैचिन्ये, किमनेन शिखण्डिना ? २u
 
अथस्वभावतो वृत्ति-रवितर्कया महेशितुः ।
परिक्षकाणां तर्ह्येष, परीक्षाक्षेपडिण्डिमः ॥६॥
 
सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् ।
मतं नः सन्ति सर्वज्ञा, मुक्ताः कायभृतोऽपि च ॥७||
 
सृष्टिवादकुहेवाक-मुन्मुच्येत्यप्रमाणकम् ।।
त्वच्छासने रमन्ते ते, येषां नाथ ! प्रसीदसि ॥८||
 
 
अष्टम प्रकाश:
 
सत्त्वस्यैकान्तनित्यत्वे, कृतनाशाकृतागमौ ।
स्यातामेकान्तनाशेऽपि, कृतनाशाकृतागमौ ॥१॥
 
आत्मन्येकान्तनित्ये स्यान्न भोग: सुख-दु:खयो: |
एकान्तानित्यरूपेऽपि, न भोग: सुख-दु:खयो ||२||
 
पुण्य-पापे बन्ध-मोक्षौ, न नित्यैकान्तदर्शने ।
पुण्य-पापे बन्ध-मोक्षौ, नाऽनित्यैकान्तदर्शने ॥३॥
 
क्रमाऽक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया न हि ।
एकान्तक्षणिकत्वेऽपि, युज्यतेऽर्थक्रिया न हि ॥४॥
 
यदा तु नित्यानित्यत्व-रूपता वस्तुनो भवेत् ।
यथात्थ भगवन्नैव, तदा दोषोऽस्ति कश्र्चन ||५||
 
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् ।
द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे ।।६।।
 
द्वयं विरुद्धं नैकत्राऽ-सत्प्रमाणप्रसिद्धितः ।।
विरुद्धवर्णयोगो हि, दृष्टे मेचकवस्तुषु ।।७॥
 
विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् ।
इच्छंस्तथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत् ||८||
 
चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् ।
योगो वैशेषिको वापि, नाऽनेकान्तं प्रतिक्षिपेत् ।।९।। 
 
इच्छप्रधानं सत्त्वाद्यी-र्विरुद्धैगुम्फितं गुणै:।
सांख्य: संख्यावतां मुख्यो, नाऽनेकान्तं प्रतिक्षिपेत ||९०||
 
 विमतिः सम्मतिर्वापि, चार्वाकस्य न मृग्यते |
परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥११॥
 
तेनोत्पादव्ययस्थेम-सम्भिन्न गोरसादिवत् ।
त्वदुपज्ञं कृतधियः, प्रपन्ना वस्तु वस्तुसत् ॥१२॥
 
नवम प्रकाश
 
यत्राल्पेनापि कालेन, त्वद्भक्तेः फलमाप्यते ।
कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभि: ||१॥
 
सुषमातो दु:षमायां, कृपा फलवती तव ।
मेरुतो मरुभूमौ हि, श्र्लाध्या कल्पतरोः स्थितिः ॥२॥
 
श्राद्ध: श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् ।
त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ||३||
 
युगान्तरेऽपि चेन्नाथ !, भवन्त्युच्छृङ्खला: खला: ।
वृथैव तर्हि कुप्याम:, कलये वामकेलये ॥४॥
 
कल्याणासिद्धयै साधियान्, कलिरेव कषोपलः ।।
विनाग्निं गन्धमहिमा, काकतुण्डस्य नैधते ।५॥
 
निशि दीपोऽम्बुधौ द्वीपं, मरौ शाखी हिमे शिखी ।
कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजः कण: ।।६।।
 
युगान्तरेषु भ्रान्तोऽस्मि, त्वद्दर्शनविनाकृत:
नमोऽस्तु कलये यत्र, त्वद् दर्शनमजायत ।।७।।
 
बहुदोषो दोषहीनात्, त्वतः कलिरशोभत ।
विषयुक्तो विषहरात्, फणीन्द्र इव रत्नतः ॥८॥
 
दशम प्रकाश:
 
मत्त्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः ।
इत्यन्योन्याश्रयंभिन्धि, प्रसीद भगवन् ! मयि ॥१॥
 
निरीक्षितुं रुपलक्ष्मीं, सहस्राक्षोऽपि न क्षमः।
स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वत्क्तुं न ते गुणान् ॥२||
 
संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि ।
अत: परोऽपि किं कोऽपि, गुण: स्तुत्योऽस्ति वस्तुत ? ॥३॥
 
इदं विरुद्धं श्रद्धात्तां, कथमश्रद्धानकः ?।।
आनन्दसुखसक्तिश्र्च, विरक्तिश्र्च समं त्वयि ||४||
 
नाथेयं घटयमानापि, दुर्घटा घटतां कथम् ? ।
उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ।५॥
 
द्वयं विरुद्ध भगवंस्तव नान्यस्य कस्यचित् ।
निर्ग्रन्थता परा या च, या चोच्चैश्र्चक्रवर्त्तिता ||६||
 
नारका अपि मोदन्ते, यस्य कल्याणपर्वसु ।
पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षम: ? ||७||
 
शमोऽभुतोऽद्भुतं रूपं, सर्वात्मसु कृपाद्भुता।
सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नम: ॥८॥
 
 
एकादश प्रकाश:
 
निघ्नन्परीषहचमू-मुपसर्गान् प्रतिक्षिपन् ।
प्राप्तोऽसि शमसौहित्यं, महतां कापि वैदुषी ॥१॥
 
अरक्तो भुक्तवान् मुक्ति-मद्विष्टोहतवान्द्विषः ।
अहो ! महात्मनां कोऽपि, महिमा लोकदुर्लभः ? ॥२॥
 
सर्वथा निर्जिगीषेण, भीतभीतेन चागसः ।
त्वया जगत्त्रयं जिग्ये, महतां काऽपि चातुरी ॥३॥
 
दत्तं न किञ्चित् कस्मैचिन्नात्तं किञ्चित्कुतश्र्चन ।
प्रभुत्वं ते तथाप्येतत्कला कापि विपश्र्चिताम् ॥४॥
 
 यद् देहस्यापि दानेन, सुकृतं नार्जितं परैः ।
उदासीनस्य तन्नाथ ?, पादपीठे तवालुठत् ॥५॥
 
रागादिषु नृशंसेन, सर्वात्मसु कृपालुना ।
भीमकान्तगुणेनोच्चैः, साम्राज्यं साधितं त्वया ॥६॥
 
सर्वे सर्वात्मनाऽन्येषु, दोषास्त्वयि पुनर्गुणाः ।
स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासद: ॥७॥
 
महीयसामपि महान्, महनीयो महात्मनाम् ।
अहो ! मे स्तुवतः स्वामी, स्तुतेर्गोचरमागमत् ॥८॥
 
द्वादश प्रकाश:
 
पट्वभ्यासादरै: पू़र्वं, तथा वैराग्यमाहर: ।
यथेह जन्मन्याजन्म, तत् सात्मीभावमागमत् ॥१॥
 
 
दु:खहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् ।
मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥२॥
 
विवेकशाणैर्वैराग्यशास्त्रं शांत त्वया तथा ।
यथा मोक्षेऽपि तत्साक्षा-दकुण्ठितपराक्रमम् ॥३॥
 
यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते।
यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥४॥
 
नित्यं विरक्तः कामेभ्यो, यदा योगं प्रपद्यसे ।
अलमेभिरिति प्राज्यं, तदा वैराग्यमस्ति ते ॥५॥
 
सुखे दु:खे भवे मोक्षे, यदौदासीन्यमीशिषे ।
तदा वैराग्यमेवेति, कुत्र नासि विरागवान् ? ॥६॥
 
दु:खगर्भे मोहगर्भे, वैराग्य निष्ठिता: परे ।
ज्ञानगर्भं तु वैराग्यं, त्वय्येकायनतां गतम् ॥७॥
 
औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे ।
नमो वैराग्यनिघ्नाय, तायिने परमात्मने ॥८॥
 
 
त्रयोदश प्रकाश:
 
अनाहूत सहायस्त्वं, त्वमकारणवत्सलः ।
अनभ्यर्थितसाधुस्त्वं, त्वं सम्बन्ध बान्धवः ॥१॥
 
अनक्तस्निग्धमनस-ममृजोज्ज्वलवाक्पथम् ।
अधौतामलशीलं त्वां, शरण्यं शरणं श्रये ॥२॥
 
अचण्डवीरवृत्तिना, शमिना शमवर्त्तिना ।
त्वया काममकुट्यन्त, कुटिलाः कर्मकण्टकाः ॥३॥
 
अभवाय महेशायाऽगदाय नरकच्छिदे ।
अराजसाय ब्रह्मणे, कस्मैचिद् भवते नमः ॥४॥
 
अनुक्षितफलोदग्रादनिपातगरीयसः ।।
असङ्कल्पितकल्पद्रोरत्वत्तः फलमवाप्नुयाम् ॥५॥
 
असङ्गस्य जनेशस्य, निर्ममस्य कृपात्मनः ।
मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥६॥
 
अगोपिते रत्ननिधाववृते, कल्पपादपे ।
अचिन्त्ये चिन्तारत्ने च, त्वय्यात्माऽयं मयार्पित: ॥७॥
 
फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान् ।
प्रसीद यत्कृत्यविधौ, किङ्कर्तव्यजडे मयि ॥८॥
 
चतुर्दश प्रकाशः
 
मनोवचःकायचेष्टाः, कष्टाः संहृत्य सर्वथा ।
श्र्लथत्वेनैव भवता, मन:शल्यं वियोजितम् ॥१॥
 
संयतानि न चाक्षाणि, नैवोच्छृङ्खलितानि च ।।
इति सम्यक् प्रतिपदा, त्वयेन्द्रिय जयः कृतः ॥२॥
 
योगस्याऽष्टाङ्गता नूनं, प्रपञ्चः कथमन्यथा ? ।
आबालभावतोऽप्येष, तव सात्म्यमुपेयिवान् ॥३॥
 
विषयेषु विरागस्ते, चिरं सहचरेष्वपि ।
योगे सात्म्यमद्दष्टेऽपि, स्वामिन्निदमलौकिकम् ॥४॥
 
 
तथा परे न रज्यन्त, उपकारपरे परे ।
यथाऽपकारिणी भवानहो ! सर्वमलौकिकम्  ॥५॥
 
 
हिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः ।
इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥६॥
 
तथा समाधौ परमे, त्वयात्मा विनिवेशित:।।
सुखी दु:ख्यस्मि नास्मीति, यथा न प्रतिपन्नवान् ॥७॥
 
ध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम् ।
इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥८॥
 
पञ्चदश प्रकाश:
 
जगज्जैत्रा गुणास्त्रातरन्ये तावत् तवासताम् ।
उदात्तशान्तया जिग्ये, मुद्रयैव जगत्त्रयी ॥१॥
 
मेरुस्तृणीकृतो मोहात्-पयोधिर्गोष्पदीकृतः ।
गरिष्ठेभ्यो गरिष्ठो यैः, पाप्मभिस्त्वमपोषितः ॥२॥
 
च्युतश्र्चिन्तामणिः पाणे स्तेषां लब्धा सुधा मुधा ।
यैस्ते शासनसर्वस्वमज्ञानैर्नात्मसात्कृतम् ॥३॥
 
यस्त्वय्यपि दधौ द्दष्टिमुल्मुकाकारधारिणीम् ।
तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥
 
त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरै: ।
विषेण तुल्यं पीयूषं, तेषां हन्त ! हतात्मनाम् ॥५॥
 
अनेडमूका भूयासुस्ते येषां त्वयि मत्सर:।
शुभोदकार्य वैकल्यमपि पापेषु कर्मसु ॥६॥
 
तेभ्यो नमोऽञ्जलिरयं, तेषां तान् समुपास्महे |
त्वच्छासनामृतरसैर्यैरात्माऽसिच्यतान्वहम् ॥७॥
 
भुवे तस्यै नमो यस्यां, तव पादनवांशवः ।
चिरं चूडामणीयन्ते, ब्रूमहे किमतः परम् ? ॥८॥
 
जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहु: ।
जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥९॥
 
षोडशः प्रकाशः
 
त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः ।।
पराणयन्ति मां नाथ !, परमानन्दसम्पदम् १।
 
इतश्र्चानादिसंस्कार-मूर्च्छितो मूर्च्छयत्यलम् ।
रागोरगविषावेगो, हताश: करवाणि किम् ? ॥२॥
 
रागाहिगरलाघ्रातोऽकार्षं यत्कर्मवैशसम् ।
तद् वक्तुमप्यशक्तोऽस्मि, धिग्मे प्रच्छन्नप्रापताम् ? ॥३॥
 
क्षणं सक्तः क्षणं मुक्तः, क्षणं त्र्कुद्धः क्षणं क्षमी ।
मोहाद्यैः क्रीडयैवाऽहं, कारितः कपिचापलम् ॥४॥
 
प्राप्यापि तव सम्बोधिं, मनोवाक्कायकर्मजैः ।
दुश्र्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः ॥५॥
 
त्वय्यपि त्रातरि त्रातर्यन्मोहादिमलिम्लुचैः
रत्नत्रयं मे ह्रियते, हताशो हा ! हतोऽस्मि तत् ॥६॥
 
भ्रान्तस्तीर्थानि द्दष्टस्त्व, मयैकस्तेषु तारकः ।
तत् तवाङघ्रौ विलग्नोऽस्मि, नाथ ! तारय तारय ॥७॥
 
भवत्प्रसादेनैवाह-मयतीं प्रापितो भुवम् ।
औदासीन्येन नेदानीं, तव युक्तमुपेक्षितुम्  ॥८॥
 
ज्ञाता तात ! त्वमेवैकस्त्वत्तो नान्यः कृपापरः ।
नान्यो मत्त: कृपापात्रमेधि यत्कृत्यकर्मठः ॥९॥
 
सप्तदश प्रकाश:
 
स्वकृतं दुष्कृतं गर्हन्, सुकृतं चाऽनुमोदयन् ।
नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥१॥
 
मनोवाक्कायजे पापे, कृतानुमतिकारितैः ।
मिथ्या मे दुष्कृतं भूयाद्पुनः क्रिययान्वितम् ॥२॥
 
यत् कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् ।
तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥३॥
 
सर्वेषामर्हदादीनां, यो योऽर्हत्त्वादिको गुणः ।।
अनुमोदयामि तं तं, सर्वं तेषां महात्मनाम् ॥४॥
 
त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् ।
त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावत: ॥५॥
 
क्षमयामि सर्वान् सत्त्वान्, सर्वे क्षाम्यन्तु ते मयि ।
मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥
 
एकोऽहं नास्ति मे कश्र्चिन् न चाहमपि कस्यचित् ।
त्वदङ्घ्रशरणस्थस्य, मम दैन्यं न किञ्चन ॥७॥
 
यावन्नाप्नोमि पदवीं, परां त्वदनुभावजाम् ।
तावन्मयि शरण्यत्वं, मा मुंच शरणं श्रिते ॥८॥
 
अष्टादश: प्रकाश:
 
न परं नाम मृढ्वेव, कठोरमपि किञ्चन ।
विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये ॥१॥
 
 
न पक्षिपशुसिंहादि-वाहनासीनविग्रहः ।
न नेत्र-गात्र-वक्त्रादि-विकार विकृताकृति:॥ २॥
 
 न शूलचापचक्रादि-शस्त्राङ्करपल्लव: ।
नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥
 
न गर्हणीयचरित-प्रकम्पितमहाजनः ।।
न प्रकोपप्रसादादि-विडम्बितनरामरः ॥४॥
 
न जगज्जननस्थेम-विनाशविहितादरः ।
न लास्यहास्यगीतादि-विप्लवोपप्लुतस्थितिः ॥५॥
 
तदेवं सर्व देवेभ्यः, सर्वथा त्वं विलक्षणः ।
देवत्वेन प्रतिष्ठाप्यः, कथं नाम परीक्षकैः ? ॥६॥
 
अनुश्रोतः सरत्पूर्ण-तृणकाष्ठादियुक्तिमत् ।
प्रतिश्रोतः श्रयद्वस्तु, कया युक्त्या प्रतीयताम् ? ॥७॥
 
अथवाऽलं मन्दबुद्धि-परीक्षकपरीक्षणैः ।
ममापि कृतमेतेन, वैयात्येन जगत्प्रभो ! ॥८॥
 
यदेव सर्वसंसारि-जन्तुरूपविलक्षणम् ।
परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥९॥
 
क्रोधलोभभयाक्रान्तं , जगदस्माद्विलक्षणः ।
न गोचरो मृदुधियां, वीतराग ! कथञ्चन ॥१०॥
 
 
एकोनविंशतिः प्रकाशः
 
तव चेतसि वर्तेऽह-मिति वार्त्ताऽपि दुर्लभा ।
मच्चित्ते वर्तसे चेत्त्व-मलमन्येन केनचित् ॥१॥
 
निगृह्य कोपतः कांश्र्चित्, कांश्र्चित्तुष्टयाऽनुगृह्य च ।
प्रतार्यन्ते मृदुधिय: प्रलम्भन परै: परै: ॥२॥
 
अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् ।
चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ॥३॥
 
वीतराग ! सपर्यात-स्तवाज्ञापालनं परम् ।
आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय च ॥४॥
 
आकालमियमाज्ञा ते, हेयोपादेयगोचरा ।
आश्रव: सर्वथा हेय, उपादेयश्र्च संवर: ॥५॥
 
आश्रवो भवहेतुः स्यात्, संवरो मोक्षकारणम् ।
इतीयमार्हतीमुष्टि-रन्यदस्या: प्रपञ्चनम् ॥६॥
 
इत्याज्ञाराधनपरा, अनन्ता: परिनिर्वृता: ।
निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथापरे ॥७॥
 
हित्वा प्रसादनादैन्य-मेकयैव त्वदाज्ञया
सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपञ्चरात् ॥८॥
 
विंशतिम प्रकाशः
 
पादपीठलुठन् मूर्ध्नि, मयि पादरजस्तव ।
चिरं निवसतां पुण्य-परमाणुकणोपमम् ॥१॥
 
मद्द्दशौ त्वन्मुखासक्ते, हर्षबाष्पजलोर्मिभिः ।।
अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात् क्षालयतां मलम् ॥२॥
 
 
त्वत् पुरो लुठनैर्भूयान्, मद् भालस्य तपस्विनः ।
कृतासेव्यप्रणामस्य, प्रायश्र्चित्तं किणावलिः ॥३॥
 
मम त्वद् दर्शनोद्भूता-श्र्चिरं रोमञ्चकण्टकाः ।
नुदन्तां चिरकालोत्था-मसद् दर्शनवासनाम् ॥४॥
 
 
त्वद् वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव।
मदीयैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता ॥५॥
 
 
त्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ ।
त्वद् गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम ॥६॥
 
कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति ।
ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्ययाः ॥७॥
 
 
तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः
ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रुवे ॥८॥
 
 
श्रीहेमचन्द्रप्रभवाद्, वीतरागस्तवादितः ।
कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥

Related Articles

× CLICK HERE TO REGISTERer