Manibhadra Veer Stotra
ऊँ ह्रीं श्रीँ माणिभद्र इन्द्र ! सर्वमंगलकारकः ।
प्रत्यक्ष दर्शनं देहि मच्छ्रद्धा प्रीति-भक्त्तित: ॥१॥
विद्यां देहि धनं देहि पुत्रं च पुत्रीकाम् ।
कीर्तिँ देहि यशो देहि, प्रतिष्ठां देहि च स्त्रियम् ॥२॥
सर्वं मे वाञ्छितं देहि, सुखं शांति प्रदेहि में ।
वादे विवादे युद्धे च, जयं मेे कुरु सर्वत: ॥३॥
राज्यं च राज्यमानं च बलबुद्धिं प्रवर्द्धय।
गर्भस्थबालकं रक्ष, रोगेभ्यो रक्ष बालकान् ॥४॥
आधिं व्याधिं विपतिं च, महाभीतिं विनाशय ।
घातकेभ्यश्च मां रक्ष, रात्रौ दिवा च सर्वदा ५॥
अपमुत्यु प्रयोगाणां, नाशतो रक्ष मेें सदा।
दैवीसंकटतो रक्ष, आकस्मिकविपत्तित: ॥६॥
शाकिनी-भूत-वैतालान् राक्षसांश्च निवारय ।
वने रणे गृहे ग्रामे, रक्ष राज्यसभादिषु ॥७॥
इष्टसिद्धिं महासिद्धिं , जय लक्ष्मी विवर्द्धय ।
तपागच्छ-नायकं ऊँ ह्रींँ श्रीँ माणिभद्रवीरं ॥८॥
नमोस्तु ते मम शांति तृष्टिं पुष्टिं ऋद्धिं वृध्दिं ।
सिद्धिं समृद्धिं वश्यं रक्षां च, कुरु कुरु स्वाहा ॥९॥
।। श्री मणिभद्रवीर स्तोत्र।।
ॐ नमामि मणिभद्रं,वन्दे वीर महाबलिं ।
विपत्तिकाले माम् रक्ष, रक्ष माम् देव माणिभद्रे ।।
ॐ आं क्रों ह्रीं मंत्ररूपे महाबलीं रक्षं सदा ।
माम् शरणं शरणं तव, रक्ष माम् देव माणिभद्रे ।।
भ्रां भ्रीं भूम भ्रं: मंत्ररूपे तव भक्ति प्रभावतः ।
प्रत्यक्षं दर्शनं देहि, रक्ष माम् देव ! माणिभद्रे ।।
धर्मार्थ काम मोक्षच्चेव, कामदात्रु, सुखसंपदा ।
*
महाभीती विनाशाय रक्ष माम् देव ! माणिभद्रे ।।
झां झीं झूम झ: मंत्ररूपे, तव शरीरं शुशोभितं ।
स्राम सः ते तु प्रत्यक्षम, रक्ष माम् देव ! माणिभद्रे ।।
सुखड़ी श्रीफ़लंशचैव , कामदं मोक्षदं तथा ।
आधीं व्याधीं विपत्तीम च, रक्ष माम् देव ! माणिभद्रे ।।
राजभयं चोरभयं नास्ति, न च सर्पेण डस्यते ।
सर्व मंगल कारकं देव, रक्ष माम् देव ! माणिभद्रे ।।
चमत्कारी प्रभावशाली मन्त्र
|| ॐ असीआउसा नमः श्री मणिभद्र दिसतु मम: सदा सर्वकार्येषु सिद्धिं ||